Language

हनुमान मङ्गलाष्टकम्

Published By: Bhakti Home
Published on: Wednesday, Sep 13, 2023
Last Updated: Tuesday, Oct 31, 2023
पढ़ने का समय 🕛
1 minute
Hanuman Mangalashtakam

 || श्री हनुमान मङ्गलाष्टकम् ||

 || श्री आञ्जनेय मङ्गलाष्टकम् ||


गौरीशिववायुवराय अञ्जनिकेसरिसुताय च ।
अग्निपञ्चकजाताय आञ्जनेयाय मङ्गलम् ॥ १ ॥

वैशाखेमासि कृष्णायां दशम्यां मन्दवासरे ।
पूर्वाभाद्रप्रभूताय आञ्जनेयाय मङ्गलम् ॥ २ ॥

पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय आञ्जनेयाय मङ्गलम् ॥ ३ ॥

सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय आञ्जनेयाय मङ्गलम् ॥ ४ ॥

दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय आञ्जनेयाय मङ्गलम् ॥ ५ ॥

करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकण्ठाय आञ्जनेयाय मङ्गलम् ॥ ६ ॥

भक्तरक्षणशीलाय जानकीशोकहारिणे ।
सृष्टिकारणभूताय आञ्जनेयाय मङ्गलम् ॥ ७ ॥

रम्भावनविहाराय गन्धमादनवासिने ।
सर्वलोकैकनाथाय आञ्जनेयाय मङ्गलम् ॥ ८ ॥

 

|| जय श्री  राम , जय  हनुमान ||

 

BhaktiHome