Language

शिव रामाष्टकम्

Published By: Bhakti Home
Published on: Wednesday, Sep 13, 2023
Last Updated: Tuesday, Oct 31, 2023
पढ़ने का समय 🕛
1 minute
shiv ramasthakam

 ॥ श्री शिव रामाष्टकम्  ॥

शिव हरे शिव राम सखे प्रभो
त्रिविधताप निवारण हे विभो ।
अज जनेश्वर यादव पाहि मां
शिव हरे विजयं कुरु मे वरम् ॥ १ ॥

कमल लोचन राम दयानिधे
हर गुरो गज रक्षक गोपते ।
शिवतनो भवशङ्कर पाहि मां
शिव हरे विजयं कुरु मे वरम् ॥ २ ॥

सुजनरञ्जन मङ्गल मन्दिरं
भजति ते पुरुषः परमं पदम् ।
भवति तस्य सुखं परमाद्भुतं
शिव हरे विजयं कुरु मे वरम् ॥ ३ ॥

जय युधिष्ठिर वल्लभ भूपते
जय जयार्जित पुण्यपयोनिधे ।
जय कृपामय कृष्ण नमोऽस्तु ते
शिव हरे विजयं कुरु मे वरम् ॥ ४ ॥

भव विमोचन माधव मापते
सुक विमान सहंस शिवारते ।
जनक जारत राघव रक्ष मां
शिव हरे विजयं कुरु मे वरम् ॥ ५ ॥

अवनि मण्डल मङ्गल मापते
जलद सुन्दर राम रमापते ।
निगम कीर्ति गुणार्णव गोपते
शिव हरे विजयं कुरु मे वरम् ॥ ६ ॥

पतित पावन नाममयी लता
तव यशो विमलं परिगीयते ।
तदपि माधव मां किमुपेक्षसे
शिव हरे विजयं कुरु मे वरम् ॥ ७ ॥

अमरता परदेव रमापते
विजय तस्तव नामधनोपमा ।
मयि कथं करुणार्णव जायते
शिव हरे विजयं कुरु मे वरम् ॥ ८ ॥

हनुमतः प्रियचापकर प्रभो
सुर सरिद्धृत शेखर हे गुरो ।
मम विभो किमु विस्मरणं कृतं
शिव हरे विजयं कुरु मे वरम् ॥ ९ ॥

अहरहर्जन रञ्जनसुन्दरं
पठति यः शिव राम कृतस्तवम् ।
विशति राम रमाचरणाम्बुजे
शिव हरे विजयं कुरु मे वरम् ॥ १० ॥

प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ।
विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥ ११ ॥

 | इति श्रीरामानन्दविरचितं श्रीशिवरामस्तोत्रम् ।

 

BhaktiHome